Breaking

Post Top Ad

Your Ad Spot

Friday, 12 March 2021

श्री शिव गायत्री मंत्र ,बिल्वाष्टक

 ॐ नमःशिवाय


*श्री शिव गायत्री मंत्र*


*ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र: प्रचोदयात।*


*ॐ सर्वेश्वराय विद्महे, शूलहस्ताय धीमहि | तन्नो रूद्रः प्रचोदयात् ||*


*ॐ पंचवक्त्राय विद्महे, सहस्राक्षाय महादेवाय धीमहि, तन्नो रुद्रः प्रचोदयात् ।।*


*मृत्युंजयाय रुद्राय नीलकण्ठाय शम्भवे ।*

*अमृतेशाय शर्वाय महादेवाय ते नम: ॥*


*अर्थ : मृत्युंजय (मृत्यूवर ज्याने विजय मिळवलेला आहे असा), रुद्र (असुरांना ज्याची भीती वाटते असा), नीलकण्ठ (ज्याचा कंठ निळा आहे असा), शम्भु (कल्याणकारी), अमृतेश (अमृताचा स्वामी), शर्व (मंगलमय), महादेव (देवांमध्ये श्रेष्ठ) अशी विविध नावे असलेल्या भगवान शंकराला मी वंदन करतो.*


ॐ नमःशिवाय


 बिल्वाष्टक 



त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥


त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २॥


अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ ३॥


शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।

सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ ४॥


दन्तिकोटि सहस्राणि वाजपेय शतानि च ।

कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ ५॥


लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ ६॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥


मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ ८॥


बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।

सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥


          ॥ इति बिल्वाष्टकम् ॥


त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥


त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।

तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ३॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥


तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।

पञ्चबिल्वमिति ख्याता  एकबिल्वं शिवार्पणम् ॥ ५॥


तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ६॥


दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ७॥


सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।

यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥


अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।

तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥


एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।

महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ १०॥


अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।

मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥


             ॥ ॐ तत्सत् ॥


बिल्वोपनिषत् 


अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा

प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां

सदा सद्भिः पूज्यमाना निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य

परात्परं शिवसायुज्यमाप्नोति? केनैकेन वस्तुना मुक्तो भवति ? तं

होवाच भगवान् सदाशिवः ॥


न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।

मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः ।

एकेन बिल्वपत्रेण सन्तुष्टोऽस्मि महामुने ॥


इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥


भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।

कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥


इति पुनः पृच्छन्तं वामदेवमालिङ्ग्येति होवाच ॥


बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।

मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥


द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।

पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥


बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।

मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥


प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च

भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥


सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।

प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ॥


देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।

ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥


वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।

इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥


पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।

उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥


मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।

त्रिमूर्तिस्त्रिगुणं बैल्वमग्निरूप तथैव च ।

ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥


पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।

सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥


पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।

उत्तानबिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥


तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।

बिल्वपत्रं विना वस्तु नास्ति किञ्चित्तवानघ ॥


तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।

उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥


इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।

तिष्ठत्येव महावीरः पुनर्जन्मविवर्जितः ॥


सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।

मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥


सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥


त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्णं त्रयीमयम् ।

त्रिगुणं निजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥


कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।

तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥


देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।

मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥


दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः ।

मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥


त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।

बोधको ह्या सहस्राद्वै पङ्क्तिं पावयते ध्रुवम् ॥


त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।

श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥


अखण्डानन्दसम्बोधमयो यस्मादहं मुने ।

विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥


अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।

प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥


उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।

मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥


येन केन प्रकारेण बिल्वकेनापि मां यज ।

तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥


बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।

यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥


य एतदधीते ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेय्यस्तेयी

भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति ।

महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च

पुनरावर्तते । न च पुनरावर्तते । ॐ सत्यम् ॥


(शैव-उपनिषदः)


इति बिल्वोपनिषत् समाप्ता ।

    *ॐ नमःशिवाय*

    *अजय शंकर जंगम*

No comments:

Post a Comment

Post Top Ad

Your Ad Spot