Breaking

Post Top Ad

Your Ad Spot

Wednesday, 4 November 2020

श्रीविठ्ठलस्तोत्रम्

 


❄❄❄❄❄🏵❄❄❄❄❄

             *🔸श्रीविठ्ठलस्तोत्रम्🔸* 


*श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः । विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १॥*


*मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः । अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २॥*


*श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च । वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३॥*


*श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः । परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४॥*


*शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः । विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५॥*


*गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः । प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६॥*


*यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः । कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति । पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः । वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८॥*


*नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् । परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥*


*इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं श्रीविठ्ठलस्तोत्रं सम्पूर्णम्*

❄❄❄❄❄🏵❄❄❄❄❄

No comments:

Post a Comment

Post Top Ad

Your Ad Spot