#श्रीहरिः
🌺#श्रीदेवी_मङ्गलाष्टकम्🌺
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
श्रीविद्या शिवनामभागनिलया कामेश्वरी सुन्दरी,
सूक्ष्मस्थूलदशाविशेषितजगद्रूपेण विद्योतिनी ।
स्वांशीभूतसमस्तभूतहृदयाकाशस्वरूपा शिवा,
लोकातीत मदाश्रया शिवसती कुर्यात्सदा मङ्गलम् ॥
दुर्गा भर्गमनोहरा सुरनरैः संसेव्यमाना सदा दैत्यानां,
सुविनाशिनी च महतां साक्षात् फलादायिनी ।
स्वप्ने दर्शनदायिनी परमुदं सन्धायिनी शाङ्करी,
पापघ्नी शुभकारिणी सुमुदिता कुर्यात्सदा मङ्गलम् ॥
बाला बालार्कवर्णाढ्या सौवर्णाम्बरधारिणी ।
चण्डिका लोककल्याणी कुर्यान्मे मङ्गलं सदा ॥
कालिका भीकराकारा कलिदोषनिवारिणी ।
काम्यप्रदायिनी शैवी कुर्यान्मे मङ्गलं सदा ॥
हिमवत्पुत्रिका गौरी कैलासाद्रिविहारिणी ।
पार्वती शिववामाङ्गी कुर्यान्मे मङ्गलं सदा ॥
वाणी वीणागानलोला विधिपत्नी स्मितानना ।
ज्ञानमुद्राङ्कितकरा कुर्यान्मे मङ्गलं सदा ॥
महालक्ष्मी प्रसन्नास्या धनधान्यविवर्धिनी ।
वैष्णवी पद्मजा देवी कुर्यान्मे मङ्गलं सदा ॥
शम्भुप्रिया चन्द्ररेखा संशोभितललाटका ।
नानारूपधरा चैका कुर्यान्मे मङ्गलं सदा ॥
मङ्गलाष्टकमेतद्धि पठतां शृण्वतां सदा ।
दद्याद्देवी शुभं शीघ्रमायुरारोग्यभाग्यकम् ॥
॥ इति श्रीदेवीमङ्गलाष्टकं सम्पूर्णम् ॥
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
"हे नाथ ! हे मेरे नाथ !! मैं आपको भूलूँ नहीं !!!"
🙏॥ श्रीहरिः शरणम् ॥🙏
No comments:
Post a Comment