Breaking

Post Top Ad

Your Ad Spot

Tuesday, 20 October 2020

श्री शाकंभरी पञ्चकम्

 


❄❄❄❄❄🏵❄❄❄❄❄

         *🔸श्री शाकंभरी पञ्चकम्🔸* 


*श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती ।*

*श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥*

*श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया ।*

*श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥*


*शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया ।*

*शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥*

*श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता ।*

*शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥*


*कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा ।*

*कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥*

*कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना ।*

*कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥*


*भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी ।*

*भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥*

*भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा ।*

*भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥*


*रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा ।*

*राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥*

*रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी ।*

*रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥*


*श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं ।*

*सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥*

*आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां ।*

*शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥ *


*॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥*

❄❄❄❄❄🏵❄❄❄❄❄

No comments:

Post a Comment

Post Top Ad

Your Ad Spot