महा लक्ष्म्यष्टकम्
इंद्र उवाच -
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ‖ 1 ‖
नमस्ते गरुडारूढे कोलासुर भयंकरि |
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ‖ 2 ‖
सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरि |
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ‖ 3 ‖
सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि |
मंत्र मूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ‖ 4 ‖
आद्यंत रहिते देवि आदिशक्ति महेश्वरि |
योगज्ञे योग संभूते महालक्ष्मि नमोऽस्तु ते ‖ 5 ‖
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे |
महा पाप हरे देवि महालक्ष्मि नमोऽस्तु ते ‖ 6 ‖
पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि |
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तु ते ‖ 7 ‖
श्वेतांबरधरे देवि नानालंकार भूषिते |
जगस्थिते जगन्मातः महालक्ष्मि नमोऽस्तु ते ‖ 8 ‖
महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः |
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ‖
एककाले पठेन्नित्यं महापाप विनाशनं |
द्विकालं यः पठेन्नित्यं धन धान्य समन्वितः ‖
त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं |
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ‖
[इंत्यकृत श्री महालक्ष्म्यष्टक स्तोत्रं संपूर्णम्]
No comments:
Post a Comment